पूर्वम्: ६।२।१३१
अनन्तरम्: ६।२।१३३
 
सूत्रम्
नाचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः॥ ६।२।१३२
काशिका-वृत्तिः
न आचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः ६।२।१३३

आचर्यः उपाद्यायः। राजा ईश्वरः। ऋत्विजो याजकाः। संयुक्ताः स्त्रीसम्बन्धिनः श्यालादयः। ज्ञातयो मातृपितृसम्बन्धिनो बान्धवाः। आचार्याद्याख्येभ्यः परः पुत्रशब्दो नद्युदात्तो भवति आख्याग्रहणात् स्वरूपस्य पर्यायाणां विशेषाणां च ग्रहणं भवति। आचार्यपुत्रः। उपाध्यायपुत्रः। शाकटायनपुत्रः। राजपुत्रः। ईश्वरपुत्रः। नन्दपुत्रः। ऋत्विक्पुत्रः। याजकपुत्रः। होतुःपुत्रः। संयुक्तपुत्रः। सम्बन्धिपुत्रः। श्यालपुत्रः। जञातिपुत्रः। भ्रातुष्पुत्रः। ऋतो विद्यायोनिसम्बधेभ्यः ६।३।२२। इति षष्ठ्या अलुक्। पुत्रस्वरे प्रतिषिद्धे समासान्तोदात्तत्वम् एव भवति।
न्यासः
नाचार्यराज�त्वक्संयुक्तज्ञात्याख्येभ्यः। , ६।२।१३२

पूर्वेणाचार्यादिभ्योऽपि परस्य पुत्रशब्दस्याद्युदात्तत्वे प्राप्ते प्रतिषेधोऽयमुच्यते। तथा च समासान्तोदात्तत्वमेव भवति। "आख्याग्रहात्()" इत्यादि। आख्याग्रहणमाचार्यादिभिः प्रत्येकमभिसम्बध्यते। तथा चाख्याग्रहणेऽनिरस्ते तस्याचार्यादेः पर्यायाणं विशेषणाञ्च ग्रहणं भवति। "आचार्यपुत्रः" इति स्वरूपस्योदाहरणम्()। "उपाध्यायपुत्रः" इति पर्यायस्य। "शाकटायनपुत्रः" इति विशेषस्य। "राजपुत्रः" इति स्वरूपस्य। "ई()आरपुत्रः" इति पर्यायस्य। "नन्दपुत्रः" इति विशेषस्य। "ऋत्विक्पुत्रः" इति स्वरूपस्य। "याजकपुत्रः" इति पर्यायस्य। "होतुःपुत्रः" इति विशेषस्य। "संयुक्तपुत्रः" इति स्वरूपस्य। "सम्बन्धिपुत्रः" इति पर्यायस्य। "स्यालपुत्रः" इति। विशेषस्य। "ज्ञातिपुत्रः" इति स्वरूपस्य। "भ्रातुष्पुत्रः" इति विशेषस्य। "कस्यादिषु च" ८।३।४८ इति षत्वम्()। तत्राचार्यशब्दः कृत्स्वरेणान्तस्वरितः। स हि चरेराङ्पूर्वस्य ण्यति व्युत्पाद्यते। उपाध्यायशब्दोऽन्तोदात्तस्थाथादिस्वरेण ६।२।१४३, स "इङश्च" ३।३।२१ इति घञन्तो व्युत्पाद्यते। राजशब्द आद्युदत्तः, कनिन्प्रत्ययान्तत्वात्()। ई()आरशब्दोऽन्तोदात्तः; "स्थेशभास" ३।२।१७५ इत्यादिना वरच्प्रत्ययान्तत्वात्()। नन्दशब्दोऽप्यन्तोदात्तः; अजन्तत्वात्()। ऋत्विक्शब्दः "ऋत्विग्दधृक्()" (३।२।५९) इत्यादिना क्विन्? प्रत्ययान्तः। कृत्स्वरेणान्तोदात्तः। याजकशब्दो ण्वुलन्तः, तेन लित्स्वरेणाद्युदात्तः। होतृशब्दस्तृन्नन्तत्वादाद्युदात्तः। संयुक्तशब्दः "गतिरन्तरः" ६।२।४९ इत्याद्युदात्तः। "स्यल वितर्कगे" (()) अस्माच्चुरादिणिजन्तात्त्? पचाद्यचि स्यालशब्दोऽन्तोदात्तः। "ज्ञा" इत्यस्मात्? "क्तिच्क्तौ च संज्ञायाम्()" ३।३।१७४ इति ज्ञातिशब्दोऽन्तोदात्तः। "तृन्स्तृचौ शंसिक्षदादिभ्यः" (द।उ।२।१) इति प्रकृत्य भातृशब्दस्तृन्न्नन्तो व्युत्पाद्यते, तेनाद्युदात्तः। संयुक्तशब्दोऽयमस्त्येव रूढिशब्दो यो विवाहकृतेन सम्बन्धेन स्याल()आशुरादिषु वर्तते, अस्ति क्रियाशब्दो यः सर्वत्र केनचित्? सम्बन्धेन वर्तते; तत्रेह रूढिशब्दस्य ग्रहणम्()। कुत एतत्()? आचार्यानीनां पृथग्ग्रहणात्()। यदि हि क्रियाशब्दस्य ग्रहणं स्यात्(), तदा संयुक्तग्रहणेनैव निषिद्धत्त्वादाचार्यादीनां पृथग्ग्रहणं न कुर्यात्()। तेऽपि हि विद्यादिकृतेन सम्बन्धेन संयुक्ता भवन्त्येव। तस्माद्रूढिशब्दस्य ग्रहणम्()। तेन क्रियाशब्दो यः संयुक्तशब्दस्तस्मात्? प्रतिषेदो न भवति॥